About Author

श्री महालक्ष्‍म्‍यष्‍टकम्

श्री गणेशाय नम:। इन्‍द्र उवाच। नमस्‍तेऽस्‍तु महामाये श्रीपीठे सुरपूजि‍ते। शख्‍डचक्रगदाहस्‍ते महालक्ष्‍मि नमोऽस्‍तुते॥१॥ नमस्‍ते गरूडारूढे कोलासुरभयंकरि‍। सर्वपापहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥२॥ सर्वज्ञे सर्व दुष्‍ट भयंकरि‍। सर्वदु:खहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥३॥ सि‍द्धि‍बुद्धि‍प्रदे देवि भुक्ति‍मुक्ति‍प्रदायि‍नी। मन्‍त्रमूर्ते महादेवि महालक्ष्‍मि नमोऽस्‍तुते॥४॥ आद्यन्‍तरहि‍तेदेवि आद्यशक्ति महेश्‍वरि‍। योगजे योगसंभूते महालक्ष्‍मि नमोऽस्‍तुते॥५॥ स्‍थूलसूक्ष्‍ममहारौद्रे महाशक्ति महोदरे। महापापहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥६॥ पद्मासनस्‍थि‍ते देवि परब्रह्मस्‍वरूपि‍णि‍। परमेशि जगन्‍मातर्महालक्ष्‍मि नमोऽस्‍तुते॥७॥ श्‍वेताम्‍बरधरे देवि नानालंकारभूषि‍ते। जगत्‍स्‍थि‍ते जगन्‍मातर्महालक्ष्‍मि नमोऽस्‍तुते॥८॥ महालक्ष्‍म्‍यष्‍टकस्‍तोत्रं य: पठेभ्‍दक्ति‍मान्‍नर:। सर्वसि‍द्धि‍मवान्‍पोति राज्‍यं प्रान्‍पोति सर्वदा॥९॥ एककाले पठेन्‍नि‍त्‍यं महापापवि‍नाशनम्। द्वि‍कालं य: पठेन्‍नि‍त्‍यं धनधान्‍यसमन्‍वि‍त:॥१०॥ त्रि‍कालं य: पठेन्‍नि‍त्‍यं महाशत्रुवि‍नाशनम्। महालक्ष्‍मीर्भवेन्‍नि‍त्‍यं प्रसन्‍ना वरदा शुभा॥११॥
इतीन्‍द्रकृत: श्रीमहालक्ष्‍म्‍यष्‍टकस्‍तव: सम्‍पूर्ण:।

0 comments:

Post a Comment

News Update :
 
Copyright © 2013. BloggerSpice.com - All Rights Reserved
Author: MohammadFazle Rabbi | Powered by: Blogger
Designed by: Blogger Spice
^