About Author

श्री नवग्रहस्‍तोत्रंम्

श्री गणेशाय नम:॥ जपाकुसुमसंकाशं काश्‍यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्‍नं प्रणतोऽस्मि दिवाकरम्॥१॥ दधिशख्‍डतुषाराभं क्षीरोदार्णावसंभवम्‍। नमामि शशिनं सौम्‍यं शंभोर्मुकुटभूषणम्॥२॥ धरणीगर्भसंभूतं विद्युत्‍कीन्तिसमप्रभम्। कुमारं शक्तिहस्‍तं च मड्गलं प्रणमाम्‍यहम्॥३॥ प्रियड्गुकलिकाश्‍यामं रूपेणाप्रतिमं बुधम्। सौम्‍यं सौम्‍यगुणोपेतं तं बुधं प्रणमाम्‍यहम्॥४॥ देवानां च ऋषीणां च गुरूं काञ्चसंनिभम्। बुद्धिभूतं त्रिलोकेशं तं बृहस्‍पतिम्॥५॥ हिमकुन्‍दमृणलाभं दैत्‍यानां परमं गुरूम्। सर्वशास्‍त्रप्रवतारं भार्गवं प्रणमाम्‍यहम्॥६॥ नीलाज्‍जनसमाभासं रविपुत्र यमाग्रजम्। छायामार्तण्‍ड संभूतं तं नमामि शनैश्र्चरम्॥७॥ अर्धकायं महावीर्यं चन्‍द्रादित्‍यविमर्दनम्। सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्‍यहम्॥८॥ फ्लाशपुष्‍पसंकाशं तारकांग्रहमस्‍तकम्। रौद्रं रौद्रात्‍मकं घोरं तं केतुं प्रणमाम्‍यहम्॥९॥ इतिव्‍यासमुखो द्रीतं य: त्‍सुसमाहित:। दिवा वा यदि वा रात्रौ विघ्‍नशान्तिर्भविष्‍यति॥१०॥ नरनारी नृपाणां च भवेद् दु:स्‍वप्‍ननाशनम्। ऐश्र्वर्य मतुलं तेषामारोग्‍य पुष्टिवर्धनम्॥११॥ ग्रहनक्षत्रजा: पीडास्‍तस्‍कराग्निसमुभ्‍दवा:। ता: सर्वा: प्रशमं शान्ति व्‍यासो ब्रूते न संशय:॥१२॥

इति श्रीव्‍यासविरचितं नवग्रहस्‍तोत्रं संपूर्णम् ।

0 comments:

Post a Comment

News Update :
 
Copyright © 2013. BloggerSpice.com - All Rights Reserved
Author: MohammadFazle Rabbi | Powered by: Blogger
Designed by: Blogger Spice
^